श्रवणम्

4.21.5
उप॒ यो नमो॒ नम᳚सि स्तभा॒यन्निय᳚र्ति॒ वाचं᳚ ज॒नय॒न्यज᳚ध्यै ।
ऋ॒ञ्ज॒सा॒नः पु᳚रु॒वार᳚ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद᳚नेषु॒ होता᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । यः । नमः᳚ । नम᳚सि । स्त॒भा॒यन् । इय᳚र्ति । वाच᳚म् । ज॒नय᳚न् । यज᳚ध्यै ।
ऋ॒ञ्ज॒सा॒नः । पु॒रु॒॑वारः᳚ । उ॒क्थैः । आ । इन्द्र᳚म् । कृ॒ण्वी॒त॒ । सद᳚नेषु । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उप स्तभायन् लोकानुपस्तम्भयन् यजध्यै यष्टुं वाचं गर्जितलक्षणां वाचं जनयन् प्रजनयन् ऋंजसानः प्रसाध्यमानः । ऋंजतिः प्रसाधनकर्मेति यास्कः । उक्थैः शस्त्रलक्षणैः स्तोत्रैः पुरुवारो बहुभिः सम्भजनीयो य इन्द्रो नमसि । नम इत्यन्ननामैतत् । यजमानैर्दत्ते हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषा तृप्तः सन् वृष्टिद्वारान्नं प्रयच्छति तेन चान्नेन पुनर्यज्ञः प्रजायत इत्यर्थः । अस्मदीयो होता सदनेषु यज्ञगृहेषु तमिन्द्रमा कृण्वीत । आभिमुखीकरोतु ॥ ५ ॥