श्रवणम्

4.13.3
यं सी॒मकृ᳚ण्व॒न्तम᳚से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒ अन᳚वस्यन्तो॒ अर्थ᳚म् ।
तं सूर्यं᳚ ह॒रितः᳚ स॒प्त य॒ह्वीः स्पशं॒ विश्व᳚स्य॒ जग᳚तो वहन्ति ॥
▶ पदपाठः (Word-by-word)
यम् । सी॒म् । अकृ᳚ण्वन् । तम᳚से । वि॒॑पृचे᳚ । ध्रु॒व॑क्षे᳚माः । अन᳚व॑स्यन्तः । अर्थ᳚म् ।
तम् । सूर्य᳚म् । ह॒रितः᳚ । स॒प्त । य॒ह्वीः । स्पश᳚म् । विश्व᳚स्य । जग᳚तः । व॒ह॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ध्रुवक्षेमाः स्थिरनिवासाः सृष्टिकर्तारो देवाः सीं सर्वतस्तमसे तमसो विपृचे पृथक्करणायार्थं जगल्लक्षनं कार्यमनवस्यन्तोऽविमुञ्चन्तः कुर्वन्त एव यं सूर्यमकृण्वन् । असृजन्नित्यर्थः । यह्वीर्महत्यः सप्त सप्तसंख्याका हरितोऽश्वा विश्वस्य समस्तस्य जगतः प्राणिसहूहस्य स्वशं प्रेरकत्वेन ज्ञातारं तं सूर्यं वहन्ति । धारयन्ति ॥ ३ ॥