ऊ॒र्ध्वं भा॒नुं स᳚वि॒ता दे॒वो अ᳚श्रेद्द्र॒प्सं दवि᳚ध्वद्गवि॒षो न सत्वा᳚ ।
अनु᳚ व्र॒तं वरु᳚णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ॥
अनु᳚ व्र॒तं वरु᳚णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ॥
पदपाठः (Word-by-word)
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि᳚ध्वत् । गो॒॑इ॒षः । न । सत्वा᳚ ।
अनु᳚ । व्र॒तम् । वरु᳚णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य᳚म् । दि॒वि । आ॒॑रो॒हय᳚न्ति ॥
अनु᳚ । व्र॒तम् । वरु᳚णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य᳚म् । दि॒वि । आ॒॑रो॒हय᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
सविता प्रेरको देव ऊर्ध्वमुन्मुखं भानुमश्रेत् । आश्रयति । यद्यदा रश्मयः सूर्यं दिवि द्युलोक आरोहयन्ति । आरोहणं कारयन्ति । तदा वरुणो रात्र्यभिमानी देवो मित्रोऽहरभिमान्यने देवाश्च व्रतं तत्सम्बन्धि कर्मानुयन्ति । अनुगच्छन्ति । अनुगमने दृष्टान्त उच्यते । द्रप्सं पार्थिवं रजो दविध्वद्धुन्वन् । विकिरन्नित्यर्थः । गविषो गा इच्छन् सत्वा न वृषभ इव तद्वत् ॥ २ ॥