श्रवणम्

4.1.19
अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ᳚रसं॒ यजि᳚ष्ठम् ।
शुच्यूधो᳚ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि᳚षिक्तमं॒शोः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता᳚रम् । वि॒श्व॑भ᳚रसम् । यजि᳚ष्ठम् ।
शुचि᳚ । ऊधः᳚ । अ॒तृ॒ण॒त् । न । गवा᳚म् । अन्धः᳚ । न । पू॒तम् । परि᳚॑सिक्तम् । अं॒शोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने शुशुचानं भृशं दीप्यमानं होतारं देवानामाह्वातारं विश्वभरसमाहुतिद्वारा वृष्तिप्रदानेन विश्वस्य पोषकं यजिश्ठं यष्टृतममग्निं त्वामच्छाभिलक्ष्य वोचेय । स्तवानि । गवामूधः शुचि शुद्धं पयो नातृणत् । तवाहुत्यर्थं यजमानो न दोग्धिः । अंशोः सोमलताखण्डस्य सम्बन्ध्यन्धो रसाख्यमन्नं पूतं दशापवित्रेण शोधितं सत् न परिषिक्तम् । गृहेषु न प्रक्षिप्तम् । किन्त्वनेन यजमानेन केवलं स्तुतिरेव क्रियते । वोचेय । बूञ् आशीर्लिङि ब्रुवो वचिः । लिङ्याशिष्यङ् । छन्दस्युभयथेति सार्वधातुकत्वात्सीयुटः सलोपः । अतृणत् । उतृदिर् हिंसानादरयोः । दोहनमेवोधोहिंसनम् । परिषिक्तम् । सिञ्च्चतेः कर्मणि क्तः । उपस्र्गात्सुनोतीति संहितायां षत्वम् । गतिरनन्तर इति गतेः स्वरः ॥ १९ ॥