श्रवणम्

4.1.7
त्रिर᳚स्य॒ ता प᳚र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि᳚मान्य॒ग्नेः ।
अ॒न॒न्ते अ॒न्तः परि᳚वीत॒ आगा॒च्छुचि᳚ः शु॒क्रो अ॒र्यो रोरु᳚चानः ॥
▶ पदपाठः (Word-by-word)
त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य᳚ । जनि᳚मानि । अ॒ग्नेः ।
अ॒न॒न्ते । अ॒न्तरिति᳚ । परि᳚॑वीतः । आ । अ॒गा॒त् । शुचिः᳚ । शु॒क्रः । अ॒र्यः । रोरु᳚चानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेरग्न्यभिमानिनोऽस्य देवस्य त्रिस्त्रीण्यग्निवाहुसूर्यात्मना त्रीणि ता तानि प्रसिद्धानि परमोत्तमानि सत्या यथार्थभूतानि जनिमानि जन्मानि स्पार्हा सर्वैः स्पृहणीयानि सन्ति । यद्वा । अग्नेरेव त्रीणि जन्मानि दिवस्परि प्रथमं जज्ञे अग्निः । ऋग्वे. १०-४५-१ । इति । त्रीणि जाना परिभूषन्त्यस्य । ऋग्वे. १-९५-३ । इत्येवमादिषु मन्त्रेषु प्रसिद्धानि । अनन्तेऽपर्यन्ते नभस्यन्तर्मध्ये स्वतेजसा परिवीतः परिवेष्टितः शुचिः सर्वस्य शोधकः शुक्रो दीप्तियुक्तोऽत एव रोरुचानो भृशं दीप्यमानोऽर्यः स्वामी तादृशो देव आगात् । अस्मदीयं यज्ञं प्रत्यागच्छतु । सत्या । शेश्छन्दसि बहुलमिति शेर्लुक् । परिवीतः । व्येञ् संवरणे । कर्मणि क्तः । यजादित्वात्संप्रसारनम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । अर्यः । ऋ गतौ । अर्यः स्वामिवैश्ययोरिति यत्प्रत्ययान्तो निपातितः । स्वमिन्यन्तोदात्तत्वं व्यक्तव्यमित्यन्तोदात्तत्वं ॥ ७ ॥