अव᳚ यक्ष्व नो॒ वरु᳚णं॒ ररा᳚णो वी॒हि मृ᳚ळी॒कं सु॒हवो᳚ न एधि ॥
पदपाठः (Word-by-word)
अव᳚ । य॒क्ष्व॒ । नः॒ । वरु᳚णम् । ररा᳚णः । वी॒हि । मृ॒ळी॒कम् । सु॒॑हवः᳚ । नः॒ । ए॒धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने स तादृशस्त्वमूती ऊत्या रक्षणेन नोऽस्माकमवमोऽर्वाचीनः प्रत्यासन्नः सन् अस्या उषसो व्युष्टौ व्युच्छने प्रातः कालेऽग्निहोत्रादिकर्मसिद्ध्यर्थं नेदिष्ठो भव । अतिशयेनस्मदन्तिकस्थो भव । यद्वा । ऊत्या गमनेनास्माकमवमो रक्षको भव । किञ्च नोऽस्माकं वरुणं वरुणकृतं जलोदरादिरोगं आवारकं पापं वा अव यक्ष्व । अवयज । विनाशयेत्यर्थः । रराणोस्मदत्ते हविषि रममाणः । यद्वा । यजमानेभ्योऽत्यन्तमीप्सितफलप्रदस्त्वं मृळिकं सुखकरमिदं हविर्वीहि । भक्षय । किञ्च नोऽस्माकं सुहवः शोभनाह्वानोपेत एधि । भव । नेदिष्ठः । अन्तिकशब्दादिष्ठन्यन्तिकवाढयोर्नेदसाधाविति नेद इत्यादेशः । नित्त्वादाद्युदात्तः । रराणः । रमतेः कानचि मकारलोपश्छान्दसः । यद्वा । रातेर्यङ् लुकि व्यत्ययेन कानच् । अभ्यस्तानामादिः । एधि । अस्तेर्लोटि ध्वसोरेद्धावभ्यासलोपश्चेति ए इत्यादेशः । तस्यासिद्धत्वाद्धुझल्भ्यो हेर्धिः । निघातः ॥ ५ ॥