श्रवणम्

4.1.15
ते ग᳚व्य॒ता मन᳚सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् ।
दृ॒ळ्हं नरो॒ वच᳚सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ॥
▶ पदपाठः (Word-by-word)
ते । ग॒व्य॒ता । मन᳚सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि᳚ । सन्त᳚म् । अद्रि᳚म् ।
दृ॒ळ्हम् । नरः᳚ । वच᳚सा । दैव्ये᳚न । व्र॒जम् । गो॑म᳚न्तम् । उ॒शिजः᳚ । वि । व॒व्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्माणां नेतार उशिजोऽग्निं कामयमानास्तेऽङ्गिरसो गव्यता गा इच्छता मनसा दृध्रं गवां निर्गमनद्वारनिरोधकमुब्धं समुब्धं संहतम् । यद्वा । उभिः पूरणार्थः । गोभिः पूर्नं गा येमानं नियच्छन्तं परि सर्वतः सन्तं वर्तमानं धृळ्हं दृढं गोमन्तं गोभिर्युक्तं व्रजं गवां निवासस्त्य्हानमद्रिं पर्वतं दैव्येनाग्निविषयेण वचसा वेदात्मकेन स्तोत्रेण विवव्रुः । गोनिर्गमनार्थमुद्धाटितवन्तः । उब्धम् । उभ्नातिर्हन्तिना समानार्थः । यद्वा । उभ उन्भ पूरणे । कर्मणि क्तः । येमानम् । यमेः कानच्येत्वाभ्यासलोपौ । चित्त्वादन्तोदात्तः । परि शन्तमित्यत्र सम्हितायामुपसर्गप्रदुर्भ्यामस्तिर्यच् पर इति षत्वं ॥ १५ ॥