श्रवणम्

4.1.13 समानपद
अ॒स्माक॒मत्र᳚ पि॒तरो᳚ मनु॒ष्या᳚ अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः ।
अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे अ॒न्तरुदु॒स्रा आ᳚जन्नु॒षसो᳚ हुवा॒नाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अत्र᳚ । पि॒तरः᳚ । म॒नु॒ष्याः᳚ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
अश्म᳚॑व्रजाः । सु॒॑दुघाः᳚ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः᳚ । हु॒वा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र लोके पूर्वे मनुष्या अस्माकं पितरोऽङ्गिरस ऋतं यज्ञमाशुषाणा अश्नुवानाः सन्तोऽभिप्रसेदुः । अग्निमभिलक्ष्य प्रजग्मुः । तेऽङ्गिरसोऽग्निपरिचर्या बलादश्मव्रजाः पर्वतैः परिवृता वव्रे । वृणोत्याच्छादयतीति वव्रं पर्वतविलान्तर्वर्ति तमः । तस्मिनन्तर्मध्ये स्थिताः सुदुघाः सुष्ठु दोग्ध्री रुस्राः पणिभि रपहृता गा उदाजन् । तस्माद्विलान्निरगमयन् । किं कुर्वन्तः । तमसो विध्वंसनीरुषसो देवीः प्रकाशार्थं हुवाना आह्वयन्तः । वव्रे । वृणोतेरौणादिकः कः । कृञादीनां द्वे भवत इति द्विर्वचनं ॥ १३ ॥