श्रवणम्

4.1.20
विश्वे᳚षा॒मदि᳚तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति᳚थि॒र्मानु᳚षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव᳚ आवृणा॒नः सु᳚मृळी॒को भ᳚वतु जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । अदि᳚तिः । य॒ज्ञिया᳚नाम् । विश्वे᳚षाम् । अति᳚थिः । मानु᳚षाणाम् ।
अ॒ग्निः । दे॒वाना᳚म् । अवः᳚ । आ॒॑वृ॒णा॒नः । सु॒॑मृ॒ळी॒कः । भ॒व॒तु॒ । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्विश्वेषां सर्वेषां यज्ञियानां यज्ञार्हाणां देवानामदितिः अदितिर्देवमाता । तद्वद्देवानां पोषक इत्यर्थः । यद्वा । विश्वेषां देवानामदितिर्भूस्थानीयः आधारभूत इति यावत् । अयं वा अग्निर्वैश्वानर इति श्रुतेः । तथायमग्निर्विश्वेषां मानुषाणामतिथिरतिथिवत्पूज्यो भवति । देवानां देवनशीलानां स्तोतॄणामवोऽन्नं हविरावृणानः सम्भजन् जातवेदाः । जातं सर्वं वेत्तीति जातवेदाः । सोऽग्निस्तेषां स्तोतॄणां सुमृळीकः सुखकरो भवतु । अतिथिः । अत सातत्यगमने । ऋतन्यञ्जीत्यादिनेथिन्प्रत्ययः । नित्त्वादाद्युदात्तः । मानुषाणाम् । मनोरपत्यानीत्यर्थे मनोर्जातावञ्यतौ षुक्छेत्यञ्प्रत्ययः । ञित्त्वादाद्युदात्तः ॥ २० ॥