श्रवणम्

4.1.2
स भ्रात᳚रं॒ वरु᳚णमग्न॒ आ व᳚वृत्स्व दे॒वा{4} अच्छा᳚ सुम॒ती य॒ज्ञव᳚नसं॒ ज्येष्ठं᳚ य॒ज्ञव᳚नसम् ।
ऋ॒तावा᳚नमादि॒त्यं च᳚र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । भ्रात᳚रम् । वरु᳚णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ᳚ । सु॒॑म॒ती । य॒ज्ञ॑व᳚नसम् । ज्येष्ठ᳚म् । य॒ज्ञ॑व᳚नसम् ।
ऋ॒त॑वा᳚नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒॑धृत᳚म् । राजा᳚नम् । च॒र्ष॒णि॒॑धृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स तादृशस्त्वं भ्रातरमेकस्थानवासेन भ्रातरं वरुनम् । वृणोत्युदकमिति वरुणः । तं देवं यज्ञवसनं यज्ञैर्वननीयैर्हविर्भिः सम्भजनीयं यज्ञवसनं च यज्ञस्य सम्भक्तारं ज्येष्ठमतिशयेन प्रशस्यमृय्तावानमपां स्वामितयोदकवन्तं सत्यवन्तं वा आदित्यमदितेः पुत्रं चर्षणीधृतं मनुष्याणामुदकप्रदानेन दारकं सुमती शोभनबुद्ध्या हेतुना चर्षणीधृतं चर्षणिभिर्विद्वद्भिर्धृतं राजानं राजन्तं एतादृशं वरुणं देवं देवान् देवनशीलान् स्तोतॄनच्छाभ्या ववृत्स्व । आवर्तय । अभिमुखीकुरु । ववृत्स्व । वृतु वर्तने । लोटि बहुलं छन्दसीति विकरणस्य श्लुः । निघातः । सुमती । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः । एकादेशस्वरः । ज्येष्ठम् । प्रशस्यस्येष्ठनि ज्य चेति ज्यादेशः । नित्त्वादाद्युदात्तः । एकादेशस्वरः । यज्ञवसनम् । वन षण सम्भक्तौ । कर्मकर्तरि चासुन्प्रत्ययः । गतिकारकयोरपि पूर्वपदप्रकृति स्वरत्वं चेति पूर्वपदस्वरः ॥ २ ॥