पुन॒ः सम᳚व्य॒द्वित᳚तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य᳚धा॒च्छक्म॒ धीरः᳚ ।
उत्सं॒हाया᳚स्था॒द्व्यृ१॒᳚तू{4}र᳚दर्धर॒रम᳚तिः सवि॒ता दे॒व आगा᳚त् ॥
उत्सं॒हाया᳚स्था॒द्व्यृ१॒᳚तू{4}र᳚दर्धर॒रम᳚तिः सवि॒ता दे॒व आगा᳚त् ॥
पदपाठः (Word-by-word)
पुन॒रिति᳚ । सम् । अ॒व्य॒त् । वि॑त᳚तम् । वय᳚न्ती । म॒ध्या । कर्तोः᳚ । नि । अ॒धा॒त् । शक्म᳚ । धीरः᳚ ।
उत् । स॒म्॑हाय᳚ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम᳚तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥
उत् । स॒म्॑हाय᳚ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम᳚तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
वयन्ती वस्त्रंवयन्तीनारीव रात्रिः विततमालोकं पुनःसमव्यत् संवेष्टयते पुनःशब्दः पूर्वेद्युर प्येवमकार्षीदितिद्योतयति धीरः प्राज्ञोपि सर्वोलोकः कर्तोः क्रियमाणंकर्म कर्तोः कर्तवाइति तन्नामसुपाठात् शक्म कर्तुंशक्यमपि मध्या मध्ये उपक्रान्तं कर्म अपरिसमाप्येत्यर्थः न्यधात् निहितवान् सवितर्युपरतइतिशेषः सर्वोलोकः संहायशय्यांविहायउदस्थात् अविशिष्टंकर्मकर्तुं पुन रुत्तिष्ठति संपूर्वोजहातिःशय्यापरित्यागेवर्तते तथाचश्रूयते—कलिः शयानोभवतिसंजिहानस्तुद्रापर इति । सवितासर्वस्यप्रसवितासूर्यः अरमतिः अनुपरतिःदेवः द्योतमानः आगात् आगच्छति उदे तीतियावत् ऋतून् कालविशेषांश्चव्यदर्दः विदारयति ॥ ४ ॥