मा नो᳚ व॒धैर्व᳚रुण॒ ये त᳚ इ॒ष्टावेनः᳚ कृ॒ण्वन्त᳚मसुर भ्री॒णन्ति᳚ ।
मा ज्योति᳚षः प्रवस॒थानि᳚ गन्म॒ वि षू मृधः᳚ शिश्रथो जी॒वसे᳚ नः ॥
मा ज्योति᳚षः प्रवस॒थानि᳚ गन्म॒ वि षू मृधः᳚ शिश्रथो जी॒वसे᳚ नः ॥
पदपाठः (Word-by-word)
मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः᳚ । कृ॒ण्वन्त᳚म् । अ॒सु॒र॒ । भ्री॒णन्ति᳚ ।
मा । ज्योति᳚षः । प्र॒॑व॒स॒थानि᳚ । ग॒न्म॒ । वि । सु । मृधः᳚ । शि॒श्र॒थः॒ । जी॒वसे᳚ । नः॒ ॥
मा । ज्योति᳚षः । प्र॒॑व॒स॒थानि᳚ । ग॒न्म॒ । वि । सु । मृधः᳚ । शि॒श्र॒थः॒ । जी॒वसे᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेवरुण नोस्मान्वधैः हननसाधनैरायुधैर्माहिंसीरितिशेषः हेअसुर पापकृतांनिरसितः ते त्वदीये- इष्टौयज्ञेएनः विहिताननुष्ठानेनजनितंपापंकृण्वन्तंकुर्वन्तंपुरुषंयेवधाभ्रीणन्ति हिंसन्ति तैरितिपूर्वत्रसं- बन्धः भ्रीष् हिंसायां क्रैयादिकः अपिच ज्योतिषः गृहेवर्तमानादग्नेःसौरप्रकाशाद्वाप्रवसथानिप्रवासा- न्मागन्म मागच्छाम सर्वदागृहेवर्तमानः सूर्यंपश्यंश्चिरकालंजीवेयमित्यर्थः गमेर्लुङिमन्त्रेघ्सेतिच्लेर्लुक् तथानोस्माकंजीवसेजीवनायमृधोहिंसकान् सुसुष्ठुविशिश्रथः विश्लेषय बाधस्वेत्यर्थः ॥ ७ ॥