श्रवणम्

2.28.1 समानपद
इ॒दं क॒वेरा᳚दि॒त्यस्य᳚ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य᳚स्तु म॒ह्ना ।
अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु᳚की॒र्तिं भि᳚क्षे॒ वरु᳚णस्य॒ भूरे᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । क॒वेः । आ॒दि॒त्यस्य᳚ । स्व॒॑राजः᳚ । विश्वा᳚नि । सन्ति᳚ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।
अति᳚ । यः । म॒न्द्रः । य॒जथा᳚य । दे॒वः । सु॒॑की॒र्तिम् । भि॒क्षे॒ । वरु᳚णस्य । भूरेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवेः क्रान्तदर्शिनआदित्यस्य अदितेःपुत्रस्य स्वराजः स्वयमेवराजमानस्येश्वरस्यवा वरुणस्येदं हविःस्तोत्रंवा यजमानःकरोतीतिशेषः सचविश्वानिसर्वाणिसंति द्वितीयभावविकारभांजिभूतजाता निमह्नामहिम्नावरुणप्रसादाल्लब्धेनअभ्यस्तु अभिभवतु योदेवोद्योतमानोवरुणः यजथाययष्ट्रेपुरुषा यअतिशयेनमन्द्रः स्तुत्योहर्षयितावाभवति तस्यभूरेर्भर्तुर्वरुणस्यसुकीर्तिंशोभनांस्तुतिं भिक्षेप्रार्थये यद्वा वरुणस्येतितृतीयार्थेषष्ठी तेनवरुणेनदातव्यांशोभनांकीर्तिं अहंयाचे ॥ १ ॥