श्रवणम्

2.28.10 समानपद
यो मे᳚ राज॒न्युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह᳚ ।
स्ते॒नो वा॒ यो दिप्स᳚ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द्वरुण पाह्य॒स्मान् ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । रा॒ज॒न् । युज्यः᳚ । वा॒ । सखा᳚ । वा॒ । स्वप्ने᳚ । भ॒यम् । भी॒रवे᳚ । मह्य᳚म् । आह᳚ ।
स्ते॒नः । वा॒ । यः । दिप्स᳚ति । नः॒ । वृकः᳚ । वा॒ । त्वम् । तस्मा᳚त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेराजन् वरुण मेमदीयोयुज्योयोजनसमर्थः पित्रादिर्वासखासमानख्यानोबान्धवोवा स्वमेदृष्टंत्व- द्विषयंभयंभीरवेभयशीलायमह्यंयआहब्रूते तथास्तेनश्चौरोवावृकोरण्यश्वावा योनोस्मान् दिप्सतिजि- घांसति सनीवंतर्धेतिविकल्पनादिडभावः दम्भइच्चेतीत्वम् हेवरुण त्वंतस्मात्सर्वस्मादस्मान्पाहिरक्ष ॥ १० ॥