वि मच्छ्र᳚थाय रश॒नामि॒वाग᳚ ऋ॒ध्याम᳚ ते वरुण॒ खामृ॒तस्य᳚ ।
मा तन्तु᳚श्छेदि॒ वय᳚तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः᳚ पु॒र ऋ॒तोः ॥
मा तन्तु᳚श्छेदि॒ वय᳚तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः᳚ पु॒र ऋ॒तोः ॥
पदपाठः (Word-by-word)
वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्॑इ᳚व । आगः᳚ । ऋ॒ध्याम᳚ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य᳚ ।
मा । तन्तुः᳚ । छे॒दि॒ । वय᳚तः । धिय᳚म् । मे॒ । मा । मात्रा᳚ । शा॒रि॒ । अ॒पसः᳚ । पु॒रा । ऋ॒तोः ॥
मा । तन्तुः᳚ । छे॒दि॒ । वय᳚तः । धिय᳚म् । मे॒ । मा । मात्रा᳚ । शा॒रि॒ । अ॒पसः᳚ । पु॒रा । ऋ॒तोः ॥
सायणभाष्यम् (Sayana Commentary)
हेवरुण मत् मत्सकाशात् रशनामिवरज्जुमिवआगः विहिताननुष्ठानजनितं पापं विश्रथय शिथि- लीकुरु विमोचयोत्यर्थः तेत्वत्संबन्धिनऋतस्योदकस्यपूर्णांखांनदीं खाइतिनदीनाम तां ऋध्याम लभेमहि अपिच धियंकर्म वयतः संतन्वतोमेममतन्तुःकर्मसन्ततिः माछेदि छिन्नोमाभूत् नैरन्तर्येणा- स्त्वित्यर्थः तथाऋतोः समाप्तिकालात् पुरापूर्वंअपसः कर्मणः मात्राशरीरं प्राच्योदीच्यांगलक्षणं मा- शारि शीर्णंविकलंमाभूत् शॄहिंसायां कर्मणिलुङ् पुरऋतोरित्यत्रऋत्यकइतिप्रकृतिभावः ॥ ५ ॥