पु॒रा स᳚म्बा॒धाद॒भ्या व᳚वृत्स्व नो धे॒नुर्न व॒त्सं यव᳚सस्य पि॒प्युषी᳚ ।
स॒कृत्सु ते᳚ सुम॒तिभि᳚ः शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष᳚णो नसीमहि ॥
स॒कृत्सु ते᳚ सुम॒तिभि᳚ः शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष᳚णो नसीमहि ॥
पदपाठः (Word-by-word)
पु॒रा । स॒म्॑बा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव᳚सस्य । पि॒प्युषी᳚ ।
स॒कृत् । सु । ते॒ । सु॒म॒ति॑भिः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । सम् । पत्नी᳚भिः । न । वृष᳚णः । न॒सी॒म॒हि॒ ॥
स॒कृत् । सु । ते॒ । सु॒म॒ति॑भिः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । सम् । पत्नी᳚भिः । न । वृष᳚णः । न॒सी॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र संबाधात् शत्रुजन्यात्स्वंबाधात्पुरानोस्मान् अभ्याववृत्स्व आवर्तय यथासंबाधोस्मान् नस्पृशति तथाकुर्वित्यर्थः तत्रदृष्टान्तः—धेनुर्नवत्सं यथायवसस्यघासेनपिप्युषी आप्यायिता धेनुर्वत्सं क्षुद्बाधात्परावर्तयति तद्वत् हेशतक्रतो वयंसुमतिभिः त्वद्विषयैःशोभनैःस्तोत्रैः सकृत् सकृदपिसुनसी- महि सुष्थुव्याप्येमहि तत्रदृष्टान्तः—वृषणोन सेक्तारोयुवानःयथापत्नीभिर्व्याप्यन्तेतद्वत् ॥ ८ ॥