श्रवणम्

2.16.5 समानपद
वृष्ण॒ः कोशः᳚ पवते॒ मध्व᳚ ऊ॒र्मिर्वृ᳚ष॒भान्ना᳚य वृष॒भाय॒ पात᳚वे ।
वृष᳚णाध्व॒र्यू वृ᳚ष॒भासो॒ अद्र᳚यो॒ वृष᳚णं॒ सोमं᳚ वृष॒भाय᳚ सुष्वति ॥
▶ पदपाठः (Word-by-word)
वृष्णः᳚ । कोशः᳚ । प॒व॒ते॒ । मध्वः᳚ । ऊ॒र्मिः । वृ॒ष॒भ॑अ᳚न्नाय । वृ॒ष॒भाय᳚ । पात᳚वे ।
वृष᳚णा । अ॒ध्व॒र्यू इति᳚ । वृ॒ष॒भासः᳚ । अद्र᳚यः । वृष᳚णम् । सोम᳚म् । वृ॒ष॒भाय᳚ । सु॒स्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृष्णः फलस्यवर्षितुः मध्वः मदकरस्यसोमस्यकोशोरसः ऊर्मिः अनुष्ठातॄणां पातॄणांचप्रेरकः सन् पवतेगच्छति पवगतौ अनुदात्तेत् किमर्थं वृषभान्नाय बलवर्षकानिअन्नानि यस्यसतथोक्तः तादृ- शायवृषभायकामानंवर्षित्रे इन्द्रायपातवेपानार्थंपवतइतिसमन्वयः किञ्च वृषणासोमरससेचनसमर्थौ अध्वर्यूअध्वर्युप्रतिप्रस्थातारौवृषभासः वर्षकाअद्रयोभिषवग्रावाणश्चवृषणंस्वर्गादिफ्बलस्यसेक्तारं सोमंवृषभायदेवानांश्रेष्ठायतुभ्यंसुष्वति सुन्वन्ति सुनोतेर्लटिबहुलंछन्दसीतिविकरणस्यश्लुः अदभ्य- स्तादितिझेरदादेशः ॥ ५ ॥