श्रवणम्

2.13.8
यो ना᳚र्म॒रं स॒हव᳚सुं॒ निह᳚न्तवे पृ॒क्षाय᳚ च दा॒सवे᳚शाय॒ चाव᳚हः ।
ऊ॒र्जय᳚न्त्या॒ अप᳚रिविष्टमा॒स्य᳚मु॒तैवाद्य पु᳚रुकृ॒त्सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । ना॒र्म॒रम् । स॒ह॑व᳚सुम् । नि॑ह᳚न्तवे । पृ॒क्षाय᳚ । च॒ । दा॒स॑वे᳚शाय । च॒ । अव᳚हः ।
ऊ॒र्जय᳚न्त्याः । अप᳚रि॑विष्टम् । आ॒स्य᳚म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒॑कृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुकृत् पुरूणांकर्मणांकर्तःहेइन्द्र यस्त्वं नार्मरंनॄन् मनुष्यान् मारयतीतिनृमरः कश्चिदसुरः तस्या- पत्यंनार्मरः तं सहवसुं वसुनासहवर्ततइतिसहवसुः असुरनामैतत् एतन्नामकमसुरं निहन्तवे हन्तेस्तु- मर्थेतवेन्प्रत्ययः तादौचनितीतिगतेः प्रकृतिस्वरत्वम् निहन्तुंऊर्जयन्त्याः बलवत्याः वज्रधारायाः अपरिविष्टंमलादिभिरव्याप्तं आस्यंअद्यैवअवहन्तमसुरंप्रापयः यद्वा ऊर्जयन्त्याः पिशाचिकायाः आ- स्यंप्रापयः किमर्थं पृक्षायतवहविर्लक्षणान्नलाभाय उतापिचदासवेशायदासानां दस्यूनांवेशायविना- शायच यद्वा अस्माकमन्नलाभायदस्युविनाशायच ॥ ८ ॥