श्रवणम्

2.13.4
प्र॒जाभ्य᳚ः पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि᳚व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते ।
असि᳚न्व॒न्दंष्ट्रै᳚ः पि॒तुर᳚त्ति॒ भोज᳚नं॒ यस्ताकृ᳚णोः प्रथ॒मं सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र॒॑जाभ्यः᳚ । पु॒ष्टिम् । वि॒॑भज᳚न्तः । आ॒स॒ते॒ । र॒यिम्॑इ᳚व । पृ॒ष्ठम् । प्र॒॑भव᳚न्तम् । आ॒॑य॒ते ।
असि᳚न्वन् । दंष्ट्रैः᳚ । पि॒तुः । अ॒त्ति॒ । भोज᳚नम् । यः । ता । अकृ᳚णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पुष्टिंत्वयादत्तंपोषकंधनंस्वकीयाभ्यः प्रजाभ्यः विभजन्तः अस्यैतावदस्यैतावदिति विभा- गंकुर्वन्तोगृहमेधिनआसते स्वस्वगृहेषुनिवसन्ति तत्रदृष्टान्तः—आयतेगृहंप्रत्यगच्छतेतिथयेपृष्टंधारकं प्रभवन्तं बहुभरणसमर्थं रयिमिवधनंयथाविभज्यप्रयच्छन्तितद्वत् असिन्वन् सेतुबन्धादिकंकर्मकुर्वन् लोकाः पितुः पालयित्र्यादिवःसकाशात् आगतंभोजनमुदकंतत्कार्याओषधीः दंष्ट्रैर्दन्तैरत्तिभक्षयति यद्वा असिन्वन् अव्याप्रियमाणोग्निः पितुः पालकस्ययजमानस्यसंबन्धिभोजनंहविर्लक्षणमन्नंदंष्ट्रैर्दन्त- रूपैर्ज्वालैरत्ति यस्ताकृणोरित्यादिसिद्धम् ॥ ४ ॥