श्रवणम्

2.13.12
अर᳚मय॒ः सर᳚पस॒स्तरा᳚य॒ कं तु॒र्वीत᳚ये च व॒य्या᳚य च स्रु॒तिम् ।
नी॒चा सन्त॒मुद᳚नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अर᳚मयः । सर᳚॑अपसः । तरा᳚य । कम् । तु॒र्वीत᳚ये । च॒ । व॒य्या᳚य । च॒ । स्रु॒तिम् ।
नी॒चा । सन्त᳚म् । उत् । अ॒न॒यः॒ । प॒रा॒॑वृज᳚म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय᳚न् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सरपसः सरणमपःकर्मयासांताः सरपसः शकन्ध्वादित्वात्पररूपत्वम् ताअपः कंसुखेन तराय तरणायअरमयः अक्रीडयः किञ्च तुर्वीतयेतुर्वीतिर्नामकश्चिद्राजर्षिः तस्मैवय्यायच वय्यो- नामकश्चित् तस्मै ताभ्यांस्रुतिंसरणं प्रतिअरमयः तौहिजलपूर्णांमहानदींदृष्ट्वातरायतरीतुमसम- र्थावास्तां तौचत्वयातारितौ परावृजं परितः पापानिवृणक्तिदहतीतिपरावृक् कश्चिदृषिः तमप्सु- निमग्नंतथानीचानीचंसन्तंउदनयः आपद्भ्यःऊर्ध्वंनीतवानसि किञ्च अन्धंसन्तं श्रोणंपङ्गुंसन्तं चक्षु- र्दानादपङ्गुकरणाच्चउदनयः किंकुर्वन् प्रकर्षेणश्रवयन् आत्मानंकीर्तिमन्तं कुर्वन् उदनयइतिसमन्वयः सइत्यादिसिद्धम् ॥ १२ ॥