अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम᳚हिह॒न्नारि᳚णक्प॒थः ।
तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा अ᳚जन॒न्त्सास्यु॒क्थ्य᳚ः ॥
तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा अ᳚जन॒न्त्सास्यु॒क्थ्य᳚ः ॥
पदपाठः (Word-by-word)
अध᳚ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्॑दृशे᳚ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒॑ह॒न् । अरि᳚णक् । प॒थः ।
तम् । त्वा॒ । स्तोमे᳚भिः । उ॒द॑भिः᳚ । न । वा॒जिन᳚म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
तम् । त्वा॒ । स्तोमे᳚भिः । उ॒द॑भिः᳚ । न । वा॒जिन᳚म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र अधापिचत्वंदिवेद्योतमानायसूर्यायपृथिवींचलितांसतींदृढीकृत्यसन्दृशेसन्दर्शनीयामकृणो- रकरोः दृशेविख्येचेतिकेन्प्रत्ययान्तत्वे नविपातितः धौतीनांचलन्तीनांनदीनांपथः मार्गान् अरिणक्- अरेचयः गन्तुंयोग्यानकरोरित्यर्थः रिचिर् विरेचने लङिसिप् तस्यहल् ङ्यादिनालोपः अहिहन् अहे- र्वृत्रस्यमेघस्यवाहन्तः हेइन्द्र देवाःस्तोतारस्तंतादृशंदेवंत्वात्वांस्तोमेभिः स्तोत्रैरजनन् अवर्धयन् तत्र- दृष्टान्तः—उदभिर्नवाजिनं यथावाजिनमश्वंउदभिः उदकैर्वर्धयन्ति तद्वत् पद्दन्नोमासित्यादिनाउदक- स्यउदन्भावः शेषंसिद्धम् ॥ ५ ॥