श्रवणम्

2.13.10
विश्वेदनु᳚ रोध॒ना अ᳚स्य॒ पौंस्यं᳚ द॒दुर᳚स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् ।
षळ᳚स्तभ्ना वि॒ष्टिर॒ः पञ्च᳚ सं॒दृश॒ः परि᳚ प॒रो अ᳚भव॒ः सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । इत् । अनु᳚ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य᳚म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे᳚ । धन᳚म् ।
षट् । अ॒स्त॒भ्नाः॒ । वि॒॑स्तिरः᳚ । पञ्च᳚ । स॒म्॑दृशः᳚ । परि᳚ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वेत् सुपांसुलुगितिजसआकारः सर्वाएवरोधनाः रोधस्वत्योनद्यः अस्येन्द्रस्यपौंस्यंपुंसोभावः पौंस्यं वीर्यमितियावत् अनु तद्वीर्यमनुवर्तन्ते अस्मैइन्द्रायददुः हविर्लक्षणमन्नंयजमानाः प्रयच्छन्ति किञ्च कृत्नवेकर्मणांकर्त्रेइन्द्रायधनंदधिरे सर्वजनाधारयन्ति तथाचमन्त्रः—इन्द्रायद्यावओषधीरुता- पोरयिंरक्षन्तिजीरयोवनानीति । विष्टिरोविस्तीर्णः षट्संख्याकाऊर्वीः ताश्चद्यौश्चपृथिवीचाहश्चरा- त्रिश्चापश्चौषधयइत्येवंरूपाः ताअस्तभ्राः नियमितवानसि सन्दृशः सम्यक् पश्यन्तीतिसन्दृशोजनाः पञ्चजनान् परिसर्वतः परः पारयितापालयितावा अभवः भवसि गतमन्यत् ॥ १० ॥