य॒ज्ञेन᳚ वर्धत जा॒तवे᳚दसम॒ग्निं य᳚जध्वं ह॒विषा॒ तना᳚ गि॒रा ।
स॒मि॒धा॒नं सु᳚प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ॥
स॒मि॒धा॒नं सु᳚प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ॥
पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । व॒र्ध॒त॒ । जा॒त॑वे᳚दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा᳚ । तना᳚ । गि॒रा ।
स॒म्॑इ॒धा॒नम् । सु॒॑प्र॒यस᳚म् । स्वः᳚॑नरम् । द्यु॒क्षम् । होता᳚रम् । वृ॒जने᳚षु । धूः॒॑सद᳚म् ॥
स॒म्॑इ॒धा॒नम् । सु॒॑प्र॒यस᳚म् । स्वः᳚॑नरम् । द्यु॒क्षम् । होता᳚रम् । वृ॒जने᳚षु । धूः॒॑सद᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेयजमानाऋत्विजोवा यूयं जातवेदसंजातानांवेदितारंजातधनंजातप्रज्ञंवाग्निं यज्ञेनयागेन वर्धत- प्रवर्धयत सामान्येनोक्त्वाविशेषेणाह—हविषाचरुपुरोडाशादिनातनाविस्तृतयागिरास्तुत्याचयजध्वं पूजयध्वं कीदृशंतं समिधानंसमिध्यमानं सुप्रयसंशोभनान्नं स्वर्नरंस्वर्गेनेतव्यायजमानायस्यतादृशं यद्वा स्वरितिसर्वपर्यायः स्तुतीनांनेतारः स्तोतारः बहुस्तोतारमित्यर्थः द्युक्षंदीप्तंद्युनिवासिनंवाहोता- रंहोमसंपादकं वृजनेषुबलेषुधूर्षदंबलस्यकर्तारमित्यर्थः अग्नेःपाटवेसतिशरीरं बलवत् भवतीतिप्रसि- द्धम् ॥ १ ॥