श्रवणम्

2.2.7
दा नो᳚ अग्ने बृह॒तो दाः स᳚ह॒स्रिणो᳚ दु॒रो न वाजं॒ श्रुत्या॒ अपा᳚ वृधि ।
प्राची॒ द्यावा᳚पृथि॒वी ब्रह्म᳚णा कृधि॒ स्व१॒᳚र्ण शु॒क्रमु॒षसो॒ वि दि᳚द्युतः ॥
▶ पदपाठः (Word-by-word)
दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः᳚ । दु॒रः । न । वाज᳚म् । श्रुत्यै᳚ । अप᳚ । वृ॒धि॒ ।
प्राची॒ इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । ब्रह्म᳚णा । कृ॒धि॒ । स्वः᳚ । न । शु॒क्रम् । उ॒षसः᳚ । वि । दि॒द्यु॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्मभ्यं बृहतोमहतः प्रभूतान् गवाशादिधनविशेषान् दाःदेहि तथासहस्रिणः सहस्रसं- ख्योपेतान् पुत्रभृत्यादीन् दाः देहि ददातेश्छान्दसेलुङिरूपम् वाक्यभेदादनिघातः श्रुत्यैकीर्त्यै वाज- मन्नं दुरोनतस्य द्वाराण्यपि नशब्दश्चार्थे अपावृधि अपवृणु प्रेरयेत्यर्थः यद्वा द्वाराणीव तत्प्राप्त्युपाया- न्विशदयति तदर्थंद्यावापृथिवीब्रह्मणापरिवृढेनकर्मणाप्राचीप्रकृष्टाञ्चने अस्मदनुकूले कृधिकुरु स्वर्ण आदित्यइवयथाजगत्प्रकाशयति तद्वत् शुक्रंदीप्तंत्वामुषसः उषः कालाविदिद्युतुः विद्योतयन्ति उषः कालेह्यग्नयः प्रज्वाल्यन्ते ॥ ७ ॥