प्र॒द॒क्षि॒णिद॒भि गृ᳚णन्ति का॒रवो॒ वयो॒ वद᳚न्त ऋतु॒था श॒कुन्त᳚यः ।
उ॒भे वाचौ᳚ वदति साम॒गा इ᳚व गाय॒त्रं च॒ त्रैष्टु᳚भं॒ चानु᳚ राजति ॥
उ॒भे वाचौ᳚ वदति साम॒गा इ᳚व गाय॒त्रं च॒ त्रैष्टु᳚भं॒ चानु᳚ राजति ॥
पदपाठः (Word-by-word)
प्र॒॑द॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः᳚ । वयः᳚ । वद᳚न्तः । ऋ॒तु॒॑था । श॒कुन्त᳚यः ।
उ॒भे इति᳚ । वाचौ᳚ । व॒द॒ति॒ । सा॒म॒॑गाः॑इ᳚व । गा॒य॒त्रम् । च॒ । त्रैस्तु᳚भम् । च॒ । अनु᳚ । रा॒ज॒ति॒ ॥
उ॒भे इति᳚ । वाचौ᳚ । व॒द॒ति॒ । सा॒म॒॑गाः॑इ᳚व । गा॒य॒त्रम् । च॒ । त्रैस्तु᳚भम् । च॒ । अनु᳚ । रा॒ज॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
शकुंतयः कपिञ्चलाः ऋतुथा कालेकालेवयोन्नंवदन्तःसूचयन्तः कारवः स्तोतारइव प्रदक्षि णित् प्रदक्षिणंअभिगृणन्तिअभिवदन्तु बहुवचनंपूजार्थं किञ्च उभेवाचौ गानंच श्रौतंच सामगा इव गयत्रंच त्रैष्टुभंच सामनीवशकुन्तिर्वदति अनुराजतिच श्रृण्वतोनुरक्तान् करोतीत्यर्थः ॥ १ ॥