आ॒वद{4}॒स्त्वं श᳚कुने भ॒द्रमा व᳚द तू॒ष्णीमासी᳚नः सुम॒तिं चि᳚किद्धि नः ।
यदु॒त्पत॒न्वद᳚सि कर्क॒रिर्य᳚था बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
यदु॒त्पत॒न्वद᳚सि कर्क॒रिर्य᳚था बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
पदपाठः (Word-by-word)
आ॒॑वद᳚न् । त्वम् । श॒कु॒ने॒ । भ॒द्रम् । आ । व॒द॒ । तू॒ष्णीम् । आसी᳚नः । सु॒॑म॒तिम् । चि॒कि॒द्धि॒ । नः॒ ।
यत् । उ॒त्॑पत᳚न् । वद᳚सि । क॒र्क॒रिः । य॒था॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
यत् । उ॒त्॑पत᳚न् । वद᳚सि । क॒र्क॒रिः । य॒था॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
श्कुनेहेकपिञ्चल आवदन् शब्दंकुर्वन् त्वंभद्रमावद मङ्गलंवद तूष्णीमासीनः तूष्णींतिष्ठन्न पिनोस्माकंसुमतिंचिकिद्धिबुद्भ्यस्वयद्यदाउत्पतन् वदसितदा कर्करिर्यथाकर्करिर्वदति कर्करिर्वाद्य विशॆषः अन्यद्भ्याख्यातचरम् ॥ ३ ॥
॥ अथतृतीयंमण्डलम् ॥
वैश्वामित्रेतृतीयेमण्डलेपञ्चानुवाकाः तत्रप्रथमेनुवाके द्वादशसूक्तानि तत्रसोमस्यमेतित्रयो- विंशत्यृचंप्रथमंसूक्तं तथाचानुक्रान्तं—सोमस्यत्र्यधिकेति अस्यमण्डलस्यद्रष्टाविश्वामित्रऋषिः अनु क्तत्वान्त्रिष्टुप् छन्दः मण्डलादिष्वाग्नेयमितिपरिभाषयाग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसिविनियोगः तथाचसूत्रम्—सोमस्यमातवसंप्रत्यग्निरितित्रीणीति ।