श्रवणम्

2.7.1
श्रेष्ठं᳚ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ᳚र ।
वसो᳚ पुरु॒स्पृहं᳚ र॒यिम् ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । य॒वि॒ष्ठ॒ । भा॒र॒त॒ । अग्ने᳚ । द्यु॒॑मन्त᳚म् । आ । भ॒र॒ ।
वसो॒ इति᳚ । पु॒रु॒॑स्पृह᳚म् । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यविष्ठयुवतम हेभारत भरताऋत्विजः तेषांसंबन्धीभारतः अध्वर्य्वादिभिःमन्थनहविः स्तोत्रादिनाव्याप्रियमाणात्वःत् तादृश हेवसोवासकव्याप्तवा एवंरूपाग्ने श्रेष्ठंअतिप्रशस्यं द्युमन्तं- दीप्तिमन्तंपुरुस्पृहंबहुभिरर्थिभिःस्पृहणीयंरयिंआभर आहर ॥ १ ॥