श्रवणम्

2.7.6
द्र्व᳚न्नः स॒र्पिरा᳚सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः ।
सह᳚सस्पु॒त्रो अद्भु᳚तः ॥
▶ पदपाठः (Word-by-word)
द्रु॑अ᳚न्नः । स॒र्पिः॑आ᳚सुतिः । प्र॒त्नः । होता᳚ । वरे᳚ण्यः ।
सह᳚सः । पु॒त्रः । अद्भु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्र्वन्नः समिद्रूपान्नः सर्पिरासुतिः सर्पिरासूयतेआसिच्यतेयस्मिन्तादृशः प्रत्नः पुरातनः होताहो- मनिष्पादकः वरेण्योवरणीयः सहसस्पुत्रः सहसोबलस्यपुत्रस्थानीयः बलेनोत्पन्नत्वात् अद्भुताआ- श्चर्यभूतोरमणीयइत्यर्थः एवंमहान्भावोग्निः मामनुजानात्वित्यर्थः ॥ ६ ॥

वाजयन्निवेतिषडृचमष्टमंसूक्तं सोमाहुतेर्हशब्दानुवृत्तस्याभावान्मण्डलद्रष्टागृत्समदऋषिः अग्नि- र्देवता हिशब्दायत्रीछन्दः अन्त्यानुष्टुप् वाजयन्निवान्त्यानुष्टुबित्यनुक्रान्तम् प्रातरनुवाकाश्विनशस्त्र- योस्तृतीयसूक्तत्वेनाचस्योत्तमावर्जितस्यविनियोगउक्तः ।