विश्वा᳚ उ॒त त्वया᳚ व॒यं धारा᳚ उद॒न्या᳚ इव ।
अति᳚ गाहेमहि॒ द्विषः᳚ ॥
अति᳚ गाहेमहि॒ द्विषः᳚ ॥
पदपाठः (Word-by-word)
विश्वाः᳚ । उ॒त । त्वया᳚ । व॒यम् । धाराः᳚ । उ॒द॒न्याः᳚॑इव ।
अति᳚ । गा॒हे॒म॒हि॒ । द्विषः᳚ ॥
अति᳚ । गा॒हे॒म॒हि॒ । द्विषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिचहेअग्ने वयंत्वदनुग्रहात् विश्वाद्विषः सर्वानपिद्वेष्टॄन् उदन्याधाराइवौदकसंबन्धिनीर्धारा- अल्पस्तुतीरिवत्मना आत्मनैवअन्यनिरपेक्षेणातिगाहेमहि अभिक्रम्यगच्छेम ॥ ३ ॥