शुचि᳚ः पावक॒ वन्द्यो॑ग्ने᳚ बृ॒हद्वि रो᳚चसे ।
त्वं घृ॒तेभि॒राहु᳚तः ॥
त्वं घृ॒तेभि॒राहु᳚तः ॥
पदपाठः (Word-by-word)
शुचिः᳚ । पा॒व॒क॒ । वन्द्यः᳚ । अग्ने᳚ । बृ॒हत् । वि । रो॒च॒से॒ ।
त्वम् । घृ॒तेभिः᳚ । आ॑हु᳚तः ॥
त्वम् । घृ॒तेभिः᳚ । आ॑हु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
हेपावकशोधकाग्ने शुचिः शुद्धोवन्द्यः नमस्कार्यःसन् महत् अत्यधिकंविरोचते विविधंदीप्यसे यतस्त्वंघृतेभिः घृतैराहुतः समन्तात्सिक्तः अतोविरोचसे ॥ ४ ॥