य उ᳚ श्रि॒या दमे॒ष्वा दो॒षोषसि᳚ प्रश॒स्यते᳚ ।
यस्य᳚ व्र॒तं न मीय᳚ते ॥
यस्य᳚ व्र॒तं न मीय᳚ते ॥
पदपाठः (Word-by-word)
यः । ऊं॒ इति᳚ । श्रि॒या । दमे᳚षु । आ । दो॒षा । उ॒षसि᳚ । प्र॒॑श॒स्यते᳚ ।
यस्य᳚ । व्र॒तम् । न । मीय᳚ते ॥
यस्य᳚ । व्र॒तम् । न । मीय᳚ते ॥
सायणभाष्यम् (Sayana Commentary)
योग्निः श्रियाज्वालयायुक्तः सन् दमेषु गृहेषुआ आगत्य दोषारात्रिषु उषसि अहःसुच प्रशस्यते स्तूयते यस्याग्नेर्व्रतंकर्मनमीयते नहिंस्यते नक्षीयतेवा उःपूरणः ॥ ३ ॥