अत्रि॒मनु᳚ स्व॒राज्य᳚म॒ग्निमु॒क्थानि᳚ वावृधुः ।
विश्वा॒ अधि॒ श्रियो᳚ दधे ॥
विश्वा॒ अधि॒ श्रियो᳚ दधे ॥
पदपाठः (Word-by-word)
अत्रि᳚म् । अनु᳚ । स्व॒॑राज्य᳚म् । अ॒ग्निम् । उ॒क्थानि᳚ । व॒वृ॒धुः॒ ।
विश्वाः᳚ । अधि᳚ । श्रियः᳚ । द॒धे॒ ॥
विश्वाः᳚ । अधि᳚ । श्रियः᳚ । द॒धे॒ ॥
सायणभाष्यम् (Sayana Commentary)
अत्रिंशत्रूणामन्नानां वासभ्क्तं स्वराज्यं स्वयमेव राजमानंस्वाराज्यमनु अभिलक्ष्यवाग्निं उक्था- निशस्त्राणिववृधुः वर्धयन्ति सचाग्निर्विश्वाः सर्वाःश्रियःशोभाः अधिदधे अधिकं धारयति ॥ ५ ॥