आ यः स्व१॒᳚र्ण भा॒नुना᳚ चि॒त्रो वि॒भात्य॒र्चिषा᳚ ।
अ॒ञ्जा॒नो अ॒जरै᳚र॒भि ॥
अ॒ञ्जा॒नो अ॒जरै᳚र॒भि ॥
पदपाठः (Word-by-word)
आ । यः । स्वः᳚ । न । भा॒नुना᳚ । चि॒त्रः । वि॒॑भाति᳚ । अ॒र्चिषा᳚ ।
अ॒ञ्जा॒नः । अ॒जरैः᳚ । अ॒भि ॥
अ॒ञ्जा॒नः । अ॒जरैः᳚ । अ॒भि ॥
सायणभाष्यम् (Sayana Commentary)
योग्निश्चित्रः चायनीयः नानावर्णोवाअर्चिषाज्वालयारश्मिसमूहेन आविभाति सर्वतोभासते तत्रदृष्टान्तः—स्वर्नभानुना किरणेनसूर्यइव सयथविभातितद्वत् किंकुर्वन् किंकुर्वन् अजरैर्नित्यैः ज्वा- लासमूहैः अभिसर्वताः अञ्चानः व्यञ्चयन् प्रकाशयन् ॥ ४ ॥