श्रवणम्

2.8.6
अ॒ग्नेरिन्द्र᳚स्य॒ सोम᳚स्य दे॒वाना᳚मू॒तिभि᳚र्व॒यम् ।
अरि᳚ष्यन्तः सचेमह्य॒भि ष्या᳚म पृतन्य॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । इन्द्र᳚स्य । सोम᳚स्य । दे॒वाना᳚म् । ऊ॒ति॑भिः᳚ । व॒यम् ।
अरि᳚ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरिष्यन्तः केनाप्यहिंस्यमानावयं अग्नेरिन्द्रस्यसोमस्यदेवानामन्येषामपिऊतिभीरक्षाभिः सचे- महि सङ्गच्छेमहि युक्ताभवेम तथारक्षायुक्तावयंपृतन्यतः पृतनामात्मनइच्छन्तः शत्रूनभिष्याम अभिभवेम पृतनाशब्दात्क्यचि कव्यध्वरपृतनस्यर्चिलोपइत्यवर्णलोपः ॥ ६ ॥

वेदार्थस्यप्रकाशे नतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा- चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक् संहिताभाष्येद्वितीयाष्टकेपञ्चमोध्यायः ॥ ५ ॥