अ॒स्य मे᳚ द्यावापृथिवी ऋताय॒तो भू॒तम᳚वि॒त्री वच᳚स॒ः सिषा᳚सतः ।
ययो॒रायु᳚ः प्रत॒रं ते इ॒दं पु॒र उप᳚स्तुते वसू॒युर्वां᳚ म॒हो द᳚धे ॥
ययो॒रायु᳚ः प्रत॒रं ते इ॒दं पु॒र उप᳚स्तुते वसू॒युर्वां᳚ म॒हो द᳚धे ॥
पदपाठः (Word-by-word)
अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । ऋ॒त॒॑य॒तः । भू॒तम् । अ॒वि॒त्री इति᳚ । वच᳚सः । सिसा᳚सतः ।
ययोः᳚ । आयुः᳚ । प्र॒॑त॒रम् । ते इति᳚ । इ॒दम् । पु॒रः । उप᳚स्तुते॒ इत्युप᳚॑स्तुते । व॒सु॒॑युः । वा॒ । म॒हः । द॒धे॒ ॥
ययोः᳚ । आयुः᳚ । प्र॒॑त॒रम् । ते इति᳚ । इ॒दम् । पु॒रः । उप᳚स्तुते॒ इत्युप᳚॑स्तुते । व॒सु॒॑युः । वा॒ । म॒हः । द॒धे॒ ॥
सायणभाष्यम् (Sayana Commentary)
द्यावापृथिवीहेद्यावपृथिव्यौ ऋतायतः ऋतंयज्ञमात्मनइच्छतः सिषासतः युवांसंभक्तुमिच्छतः वचसः वक्तीतिवचाः स्तोताअसृन् स्तोतुरस्यमेममावित्रीअवित्र्यौपालयित्र्यौभूतं भवतम् ययोर्द्यावापृथिव्योरायुरन्नं प्रतरंप्रकृष्टतरमुत्पद्यतइतिशेषः इदमिदानींतेद्यावापृथिव्यौ उप- स्तुते तत्रतत्रस्थितैः स्तोतृभिः स्तुते वां युवां वसूयुः धनकामोहंमहोमहतः विभक्तिव्यत्ययः महतास्तोत्रेणपुरोदधे पुरस्करोमि ॥ १ ॥