श्रवणम्

2.32.5
यास्ते᳚ राके सुम॒तयः᳚ सु॒पेश᳚सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि ।
ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग᳚हि सहस्रपो॒षं सु᳚भगे॒ ररा᳚णा ॥
▶ पदपाठः (Word-by-word)
याः । ते॒ । रा॒के॒ । सु॒॑म॒तयः᳚ । सु॒॑पेश᳚सः । याभिः᳚ । ददा᳚सि । दा॒शुषे᳚ । वसू᳚नि ।
ताभिः᳚ । नः॒ । अ॒द्य । सु॒॑मनाः᳚ । उ॒प॒॑आग᳚हि । स॒ह॒स्र॒॑पो॒षम् । सु॒॑भ॒गे॒ । ररा᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेराकेदेवि सुपेशसः शोभनरूपास्तेतवयाःसुमतयः शोभनबुद्धयः याभिर्मतिभिः दाशुषेहवि- र्दत्तवतेयजमानायसूनिधनानिददासि प्रयच्छसि अद्येदानींताभिर्मतिभिः सहितात्वंसुमनाः शोभनमनाभूत्वानोस्मान् उपागहि उपागच्छ गमेश्छान्दसः शपोलुक् अनुदात्तोपदेशेत्यादि- नानुनासिकलोपः असिद्धवदत्राभादित्यस्यासिद्धत्वाद्धेर्लुगभावः किंकुर्वती हेसुभगेसोभनधने सहस्रपोषंसहस्रसंख्याकस्यधनस्यपुष्टिंरराणाददती रादाने व्यत्ययेनशानच् छान्दसः शपः श्लुः अभ्यस्तानामादिरित्याद्युदात्तत्वम् ॥ ५ ॥ सिनीवाल्यायागेसिनीवालीत्यादिकेद्वेयाज्यानुवाक्ये सूत्रंपूर्वमुदाहृतम्