अहे᳚ळता॒ मन᳚सा श्रु॒ष्टिमा व᳚ह॒ दुहा᳚नां धे॒नुं पि॒प्युषी᳚मस॒श्चत᳚म् ।
पद्या᳚भिरा॒शुं वच᳚सा च वा॒जिनं॒ त्वां हि᳚नोमि पुरुहूत वि॒श्वहा᳚ ॥
पद्या᳚भिरा॒शुं वच᳚सा च वा॒जिनं॒ त्वां हि᳚नोमि पुरुहूत वि॒श्वहा᳚ ॥
पदपाठः (Word-by-word)
अहे᳚ळता । मन᳚सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा᳚नाम् । धे॒नुम् । पि॒प्युषी᳚म् । अ॒स॒श्चत᳚म् ।
पद्या᳚भिः । आ॒शुम् । वच᳚सा । च॒ । वा॒जिन᳚म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒॑हू॒त॒ । वि॒श्वहा᳚ ॥
पद्या᳚भिः । आ॒शुम् । वच᳚सा । च॒ । वा॒जिन᳚म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒॑हू॒त॒ । वि॒श्वहा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्रत्वष्टर्वा अहेळताअक्रुध्यतामनसाश्रुष्टिंसुखकरींदुहानांदोग्ध्रींपिप्युषींप्रवृद्धांपीनां प्यायी- वृद्धौ लिटःक्वसुः लिड्यङोश्चेतिपीभावः उगितश्चेतिङीप् सम्प्रसारणमितिसंप्रसारणम् शासिव- सिघसीनांचेतिषत्वम् असश्चतं असक्तावयवांएवंभूतांधेनुंगांआवहआभिमुख्येनप्रापय अपिचहेपु- रुहूत बहुभिराहूतेन्द्रत्वष्टर्वा पद्याभिः पादगतिभिः आशुंव्यापनशीलं वचसावाचाच वाजिनं- वेगवंतंत्वांविश्वहासर्वेष्वहस्सुहिनोमिस्तुतिभिः प्रेरयामि हिगतौवृद्धौच ॥ ३ ॥ पत्नीसंयाजेषुगृहपतेः प्राक् राकासिनीवाल्यौयष्टव्ये तत्रराकायागस्यराकामहमित्यादिकेया- ज्यानुवाक्ये सूत्रितंच—राकामहंसिनीवालिकुहूमहमितिद्वेद्वेयाज्यानुवाक्येइति तथाआग्निमारुते- प्येतेधाय्ये सूत्रितञ्च—राकामहमितिद्वेइति ।