रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु᳚वे शृ॒णोतु᳚ नः सु॒भगा॒ बोध᳚तु॒ त्मना᳚ ।
सीव्य॒त्वपः᳚ सू॒च्याच्छि᳚द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ॥
सीव्य॒त्वपः᳚ सू॒च्याच्छि᳚द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ॥
पदपाठः (Word-by-word)
रा॒काम् । अ॒हम् । सु॒॑हवा᳚म् । सु॒॑स्तु॒ती । हु॒वे॒ । शृ॒णोतु᳚ । नः॒ । सु॒॑भगा᳚ । बोध᳚तु । त्मना᳚ ।
सीव्य᳚तु । अपः᳚ । सू॒च्या । अच्छि᳚द्यमानया । ददा᳚तु । वी॒रम् । श॒त॑दा᳚यम् । उ॒क्थ्य᳚म् ॥
सीव्य᳚तु । अपः᳚ । सू॒च्या । अच्छि᳚द्यमानया । ददा᳚तु । वी॒रम् । श॒त॑दा᳚यम् । उ॒क्थ्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
संपूर्णचन्द्रापौर्णमासीराका तांदेवींसुहवां स्वाह्वानां आह्वानप्रयोजनकारिणींसुष्टुतीशोभन- यास्तुत्याअहंहुवेआह्वयामि सुष्टुतिशब्दात्तृतीयैकवचनस्यसुपांसुलुगितिपूर्वसवर्णईकारः साच सुबगाशोभनधनानोस्माकमाह्वनंशृणोतु श्रुत्वाचत्मनाआत्मनास्वयमेवबोधतु अस्मदभिप्रायं बुध्यतां बुध्वाच अपः कर्म पुत्रोत्पादनलक्षणंसूच्यासूचीस्थानीययाअच्छिद्यमानयाअवच्छिन्न- यानुग्रहबुद्ध्यासीव्यतु संतनोतु यथावस्त्रादिकंसूच्यास्यूतंचिरंतिष्ठति एवमिदंकरोतु कृत्वाच वीरंविक्रांतं शतदायं बहुधनंबहुप्रदंवाउक्थ्यंप्रशस्यंपुत्रंददातु ॥ ४ ॥