सिनी᳚वालि॒ पृथु᳚ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ ।
जु॒षस्व᳚ ह॒व्यमाहु᳚तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥
जु॒षस्व᳚ ह॒व्यमाहु᳚तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥
पदपाठः (Word-by-word)
सिनी᳚वालि । पृथु᳚॑स्तुके । या । दे॒वाना᳚म् । असि᳚ । स्वसा᳚ ।
जु॒षस्व᳚ । ह॒व्यम् । आ॑हु᳚तम् । प्र॒॑जाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥
जु॒षस्व᳚ । ह॒व्यम् । आ॑हु᳚तम् । प्र॒॑जाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
दृष्टचन्द्रामावास्यासिनीवाली हेसिनीवालि पृथुष्टुके पृथुजघनेपृथुसंहतकेशेवा यात्वंदेवानां- स्वसासि स्वयंसञ्चारिणीभगिनीवाभवसि सात्वंआहुतं आभिमुख्येनार्ग्राप्रक्षिप्तंहव्यं अस्मदीयं हविर्जुषस्वसेवस्व किञ्च हेदेवि सिनीवालि नोस्माकंप्रजांपुत्रादिकांदिदिड्वि उपचिनु अतिसर्ज यवा देहीत्यर्थः दिहउपचये लोटिछांदसःशपःश्लुः दिशातिसर्जनेइत्यस्माद्वा ॥ ६ ॥