या सु᳚बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव᳚री ।
तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि᳚नीवा॒ल्यै जु᳚होतन ॥
तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि᳚नीवा॒ल्यै जु᳚होतन ॥
पदपाठः (Word-by-word)
या । सु॒॑बा॒हुः । सु॒॑अ॒ङ्गु॒रिः । सु॒॑सूमा᳚ । ब॒हु॒॑सूव᳚री ।
तस्यै᳚ । वि॒श्पत्न्यै᳚ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥
तस्यै᳚ । वि॒श्पत्न्यै᳚ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
यासिनीवाली सुबाहुः शोभनबाहुः स्वङ्गुरिः शोभनाङ्गुलिः सुषूमा सुष्ठुप्रसवित्री षूङ् प्रा- णिप्रसवे अन्येभ्योपिद्रुश्यन्तइतिमनिन् क्रुदुत्तरपदप्रकृतिस्वरत्वम् बहुसूवरी बह्वीनांप्रजानांसवि त्री तेनैवसूत्रेणक्वनिप् वनोरचेतिङीब्रेफौ क्रुदुत्तरपदप्रकृतिस्वरत्वम् तस्यैसिनीवाल्यैविश्पत्नयै विशांपालयित्र्यै विभाषासपूर्वस्येतिपत्युर्नकारान्तादेशः अयस्मयादित्वेनभत्वाद्विशोजश्त्वाभावः परादिश्छन्दसिबहुलमित्युत्तरपदाद्युदात्तत्वम् हेऋत्विग्यजमानाः हविर्जुहोतन जुहुत तप्तनप्तनथ- नाश्चेतितनबादेशः ॥ ७ ॥