आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा न॒ः सूर्य᳚स्य सं॒दृशो᳚ युयोथाः ।
अ॒भि नो᳚ वी॒रो अर्व᳚ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभि᳚ः ॥
अ॒भि नो᳚ वी॒रो अर्व᳚ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभि᳚ः ॥
पदपाठः (Word-by-word)
आ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य᳚स्य । स॒म्॑दृशः᳚ । यु॒यो॒थाः॒ ।
अ॒भि । नः॒ । वी॒रः । अर्व᳚ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒॑जाभिः᳚ ॥
अ॒भि । नः॒ । वी॒रः । अर्व᳚ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒॑जाभिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतांपितः मरुत्संज्ञानांदेवानामुत्पादकरुद्र परमपिच्छन्दसीतिषष्ठ्यन्तस्यपूर्वामन्त्रिताङ्गव द्भावात्सर्वानुदात्तत्वम् तेत्वदीयं अस्मभ्यं दातव्यं सुम्नंसुखं आएतुआगच्छतु रुद्रस्यच मरुतांपितृ त्वमिदंपित्रेमरुतामित्यत्राख्यायिकामुखेनावादिष्म तथात्वंनोस्मान् सूर्यस्य संदृशः सन्दर्शनान्मायु- योथाः मापृथक्कार्षीः युमिश्रणामिश्रणयोः लङिछान्दसःशपःश्लुः छन्दस्युभयथेत्यार्धधातुकत्वेन- ङित्त्वाभावाद्गुणः अर्वतिशत्रौ भ्रातव्योवाअर्वेतिश्रुतेः । नोस्माकंवीरः वीर्यवान् पुत्रादिः अभिक्ष- मेत अभिभवतु यद्वा शत्रौ वीरस्त्वं नोस्मान् अभिक्षमेथाः अस्मान्कृतापराधान् अभिक्षमस्व हेरुद्र प्रजाभिः पुत्रपौत्रादिभिः प्रजायेमहि प्रभूताःस्याम ॥ १ ॥