श्रवणम्

2.33.9
स्थि॒रेभि॒रङ्गै᳚ः पुरु॒रूप᳚ उ॒ग्रो ब॒भ्रुः शु॒क्रेभि᳚ः पिपिशे॒ हिर᳚ण्यैः ।
ईशा᳚नाद॒स्य भुव᳚नस्य॒ भूरे॒र्न वा उ᳚ योषद्रु॒द्राद᳚सु॒र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
स्थि॒रेभिः᳚ । अङ्गैः᳚ । पु॒रु॒॑रूपः᳚ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः᳚ । पि॒पि॒शे॒ । हिर᳚ण्यैः ।
ईशा᳚नात् । अ॒स्य । भुव᳚नस्य । भूरेः᳚ । न । वै । ऊं॒ इति᳚ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्थिरेभिः स्थिरैर्दृढैरङ्गैः अवयवैर्युक्तः पुरुस्वफ अष्टमूर्त्यात्मकैर्बहुभीरूपैरुपेतः उग्रउद्गूर्णस्तेज- स्वी बभ्रुर्भर्ताबभ्रुवर्णोवारुद्रः शुक्रेभिःदीप्तेः हिरण्यैर्हिरण्मयैः हितरमणीयैर्वाअलङ्कारैः पिपिशेदी- प्यते पिशअवयवे कर्मणिलिट् ईशानादीशरात् अस्यभुवनस्य भूतजातस्य भूरेर्भर्तुः रुद्रात् असुर्यं अ- सुक्षेपणेअसेरुरन् असुरः क्षेप्ता तत्रसाधुः असुर्यंबलंनवाउयोषत् नैवपृथग्भवति यौतेर्लेट्यडागमः सिब्बहुलंलेतीतिसिप् ॥ ९ ॥