श्रवणम्

2.33.15
ए॒वा ब᳚भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ᳚णी॒षे न हंसि᳚ ।
ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒व । ब॒भ्रो॒ इति᳚ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा᳚ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि᳚ ।
ह॒व॒न॒॑श्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबभ्रो जगतोभर्तः बभ्रुवर्णवा वृषभ कामानांवर्षितः चेकितान सर्वंजानन् हेदेवद्योतमान रुद्र यथायेनप्रकारेणनहृणीषेनक्रुध्यसि नचहंसि हृणीङ्लज्जायां अयंक्रुध्यतिकर्माच एव एवंहवनश्रुत् अस्मदीयमाह्वानंश्रृण्वन् नोस्मान् हेरुद्र इहास्मिन्देशे बोधिबुद्भ्यस्व विदथेयज्ञे गृहेवासुवीराः शोभ- नपुत्राः सन्तः ब्रुहत्प्रौढं त्वदीयंस्तोत्रंवदेमोच्चारयाम ॥ १५ ॥

धारावराइतिपञ्चदशर्चंद्वितीयंसूक्तं गार्त्समदंमारुतं अन्त्यात्रिष्टुप् शिष्टाजगत्यः तथाचानुक्रान्त- म्—धारावरामारुतंत्रिष्टुबन्तमिति पृष्ठ्याभिप्लवषडहयोस्तृतीयेहन्याग्निमारुतशस्रस्यइदंमारुतनि- विद्धानं सूत्रितंच—वैश्वानरायधिषणांधारावरामरुतस्त्वमग्नेप्रथमोअङ्गिराइत्याग्निमारुतमिति ।