या वो᳚ भेष॒जा म᳚रुत॒ः शुची᳚नि॒ या शंत᳚मा वृषणो॒ या म᳚यो॒भु ।
यानि॒ मनु॒रवृ᳚णीता पि॒ता न॒स्ता शं च॒ योश्च᳚ रु॒द्रस्य᳚ वश्मि ॥
यानि॒ मनु॒रवृ᳚णीता पि॒ता न॒स्ता शं च॒ योश्च᳚ रु॒द्रस्य᳚ वश्मि ॥
पदपाठः (Word-by-word)
या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची᳚नि । या । शम्॑त᳚मा । वृ॒ष॒णः॒ । या । म॒यः॒॑भु ।
यानि᳚ । मनुः᳚ । अवृ᳚णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य᳚ । व॒श्मि॒ ॥
यानि᳚ । मनुः᳚ । अवृ᳚णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य᳚ । व॒श्मि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतोरुद्रपुत्राः वोयुष्माकंयायानिभेषजाभवजानिअस्मदारोग्यहेतुभूतान्यौषधानिशुचीनिशुद्धा निनिर्मलानिसन्ति हेवृषणः कामानांवर्षितारोमरुतः यायानिचयुष्मदीयानिभेषजानिशंतमाअतिश- येनसुखकराणि यायानिचभेषजानिमयोभुमयोभूनि मयसःसुखस्यभावयितॄणिनोस्मत्पितामनुः यानि भेषजानियुष्मदीयान्यवृणीतवृतवान् तातानिभेषजानिरुद्रस्यमहादेवस्यसंबन्धिशंचयोश्चयच्छमनी- यानांरोगाणामुपशमनंयावनीयानांभयानांयद्यावनं अस्मत्तः पृथक्करणं तदुभयंचवश्मिकामये वशका- न्तौ आदादिकः ॥ १३ ॥