श्रवणम्

2.33.11
स्तु॒हि श्रु॒तं ग᳚र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु᳚पह॒त्नुमु॒ग्रम् ।
मृ॒ळा ज᳚रि॒त्रे रु᳚द्र॒ स्तवा᳚नो॒॑न्यं ते᳚ अ॒स्मन्नि व᳚पन्तु॒ सेना᳚ः ॥
▶ पदपाठः (Word-by-word)
स्तु॒हि । श्रु॒तम् । ग॒र्त॒॑सद᳚म् । युवा᳚नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒॑ह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा᳚नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतः श्रुतंविश्रुतंप्रख्यातंरुद्रंस्तुहि कीदृशं गर्तसदं गर्तोरथस्तत्रसीदन्तंयुवानंनित्यतरुणं भृगं- नभीमं मृगंसिंहमिवभयङ्करं उपहन्तुं उपहन्तारं शत्रूणांउग्रमुद्गूर्णं हेरुद्र त्वंस्तवानः अस्माभिः स्तू- यमानः सन् जरित्रेस्तोत्रेमह्यंमृळसुखय तेत्वदीयाः सेनाः अस्मदन्यं अस्मद्भतिरिक्तं पुरुषंनिवपन्तु निघ्नन्तु ॥ ११ ॥