श्रवणम्

2.33.12
कु॒मा॒रश्चि᳚त्पि॒तरं॒ वन्द᳚मानं॒ प्रति᳚ नानाम रुद्रोप॒यन्त᳚म् ।
भूरे᳚र्दा॒तारं॒ सत्प᳚तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ॥
▶ पदपाठः (Word-by-word)
कु॒मा॒रः । चि॒त् । पि॒तर᳚म् । वन्द᳚मानम् । प्रति᳚ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒॑यन्त᳚म् ।
भूरेः᳚ । दा॒तार᳚म् । सत्॑प᳚तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वन्दमानं आयुष्मान्भवसौम्येस्तुवन्तंपितरं कुमारश्चित् यथाकुमारः चिदित्येत्दुपमार्थे हेरुद्र उप- यन्तमस्मत्समीपेगच्छन्तंत्वांप्रतिननाम प्रतिनतोस्मि अपिच भूरेर्बहुनोधनस्यदातारंसत्पतिंसतांपा- लयितारं पत्यावैशर्येइतिपूर्वपदप्रकृतिस्वरत्वम् हेरुद्र एवंभूतं त्वांगृणीषे स्तौमि मिपस्तिङांतिङोभ- वन्तीतिसेआदेशः स्तुतश्चत्वंअस्मेअस्मभ्यंभेषजाभेषजानिरासिदेहि ॥ १२ ॥