श्रवणम्

2.33.6 समानपद
उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी᳚यसा॒ वय᳚सा॒ नाध᳚मानम् ।
घृणी᳚व च्छा॒याम᳚र॒पा अ᳚शी॒या वि᳚वासेयं रु॒द्रस्य᳚ सु॒म्नम् ॥
▶ पदपाठः (Word-by-word)
उत् । मा॒ । म॒म॒न्द॒ । वृ॒ष॒भः । म॒रुत्वा᳚न् । त्वक्षी᳚यसा । वय᳚सा । नाध᳚मानम् ।
घृणि᳚॑इव । छा॒याम् । अ॒र॒पाः । अ॒शी॒य॒ । आ । वि॒वा॒से॒य॒म् । रु॒द्रस्य᳚ । सु॒म्नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभः कामानांवर्षिता मरुत्वान् मरुद्भिःपुत्रैर्युक्तोरुद्रः नाधमानंयाचमानं मामांत्वक्षीयसादीप्ते- नवयसान्नेनउन्ममन्द उत्कर्षेणतर्षयतु अपिचाहंघृणीव छायां यथासूर्यकिरणतप्तः छायांप्रविशति एवंरुद्रस्यसुम्नं सुखंअरपाःअपापःसन् अशीयव्याप्नुयां तदर्थंतंरुद्रमाविवासेयं परिचरेयं विवासतिः परिचरणकर्मा ॥ ६ ॥