श्रवणम्

2.33.7
क्व१॒᳚ स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति᳚ भेष॒जो जला᳚षः ।
अ॒प॒भ॒र्ता रप᳚सो॒ दैव्य᳚स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः᳚ । हस्तः᳚ । यः । अस्ति᳚ । भे॒ष॒जः । जला᳚षः ।
अ॒प॒॑भ॒र्ता । रप᳚सः । दैव्य᳚स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरुद्र तेतवमृळयाकुः सुखयिता स्यः सहस्तः क्वकुत्रवर्तते योहस्तः भेषजः भैषज्यकृत् जलाषः स- र्वेषांसुखकरोस्तिभवति सहस्तोविद्यतीव तेनहस्तेनमांरक्षेतिभावः अपिच हेवृषभ कामानांवर्षितः दैव्यस्यदेवक्रुतस्यरपसः पापस्यअपभर्ताअपहर्ताविनाशयिताभूत्वा कृतापराधं मामांनुक्षिप्रंअभिच- क्षमीथाः अभिक्षमस्व क्षमूष् सहने लङिछान्दसःशपःश्लुः बहुलंछन्दसीतिईडागमः ॥ ७ ॥ रुद्रदेवत्येपशौ वपापुरोडाशहविषांक्रमेणप्रबभ्रवइत्याद्यास्तिस्रोयाज्याः सूत्रितञ्च—प्रबभ्रवेवृष- भायश्वितीचइतितिस्रआपश्चातान्नासत्यापुस्तादिति ।