हवी᳚मभि॒र्हव᳚ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि᳚षीय ।
ऋ॒दू॒दरः᳚ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ॥
ऋ॒दू॒दरः᳚ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ॥
पदपाठः (Word-by-word)
हवी᳚म॑भिः । हव᳚ते । यः । ह॒विः॑भिः । अव᳚ । स्तोमे᳚भिः । रु॒द्रम् । दि॒षी॒य॒ ।
ऋ॒दू॒दरः᳚ । सु॒॑हवः᳚ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒॑शिप्रः᳚ । री॒र॒ध॒त् । म॒नायै᳚ ॥
ऋ॒दू॒दरः᳚ । सु॒॑हवः᳚ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒॑शिप्रः᳚ । री॒र॒ध॒त् । म॒नायै᳚ ॥
सायणभाष्यम् (Sayana Commentary)
योरुद्रः हविर्भिश्चरुपुरोडाशादिभिः सहितैर्हवीमभिराह्वानैः स्तुतिलक्षणैः हवते आहूयते स्तूय- ते व्यत्ययेनकर्मणिकर्तृप्रत्ययः बहुलंछन्दसीतिह्वयतेः सम्प्रसारणम् तंरुद्रंस्तोमेभिः स्तोत्रैरवदिषीय अवखण्डयामि पृथक्करोमि अपगतक्रोधंकरोमीतियावत् दोअवखण्डने व्यत्ययेनात्मनेपदं बहुलंछन्द- सीतीत्वम् ऋदूदरः ऋदूदरोमृदूदरइतियौस्कः । सुहवः शोभनशिप्रः एवंगुणविशिष्टःसरुद्रः अस्यैम- नायै हन्मीति मन्यमानाबुद्धिर्मना तस्यै नोस्मान् मारीरधत् मावशंनैषीत् रधहिंसासंराध्योः अस्मा- ण्ण्यन्तालुङिचङिरूपम रध्यतिर्वशगमनइतियास्कः ॥ ५ ॥