परि᳚ णो हे॒ती रु॒द्रस्य᳚ वृज्या॒ः परि᳚ त्वे॒षस्य᳚ दुर्म॒तिर्म॒ही गा᳚त् ।
अव᳚ स्थि॒रा म॒घव᳚द्भ्यस्तनुष्व॒ मीढ्व᳚स्तो॒काय॒ तन᳚याय मृळ ॥
अव᳚ स्थि॒रा म॒घव᳚द्भ्यस्तनुष्व॒ मीढ्व᳚स्तो॒काय॒ तन᳚याय मृळ ॥
पदपाठः (Word-by-word)
परि᳚ । नः॒ । हे॒तिः । रु॒द्रस्य᳚ । वृ॒ज्याः॒ । परि᳚ । त्वे॒षस्य᳚ । दुः॒॑म॒तिः । म॒ही । गा॒त् ।
अव᳚ । स्थि॒रा । म॒घव᳚त्॑भ्यः । त॒नु॒ष्व॒ । मीढ्वः᳚ । तो॒काय᳚ । तन᳚याय । मृ॒ळ॒ ॥
अव᳚ । स्थि॒रा । म॒घव᳚त्॑भ्यः । त॒नु॒ष्व॒ । मीढ्वः᳚ । तो॒काय᳚ । तन᳚याय । मृ॒ळ॒ ॥
सायणभाष्यम् (Sayana Commentary)
रुद्रस्यमहादेवस्यहेतिरायुधंनोस्मान् परिवृज्याःपरिवर्जयतु तथात्वेष्स्यदीप्तस्यरुद्रस्यमहीमहती दुर्मतिः दुःखकारिणीबुद्धिश्चपरिगात् अस्मान् वर्जयित्वान्यत्रगच्छतु अपरीवर्जने हेमीढ्वः सेचनस- र्थरुद्र स्थिरास्थिराणि त्वदीयानिधानूंषिमघवद्भ्यः हविर्लक्षणधनयुक्तेभ्योयजमाने भ्यः अवतनुष्व अवततज्यानिकुरु तथातोकयास्मत्पुत्रायतनयायतत्पुत्राय चमृळद् सुखंकुरु ॥ १४ ॥